|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.136. अध्यायः 136
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रत्य श्विन्यादिनक्षत्रेषु श्राद्धकरणस्य फलविशेषकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
यमस्तु यानि श्राद्धानि प्रोवाच शशबिन्दवे।
तानि मे शृणु काम्यानि नक्षत्रेषु पृथक्पृथक्॥ 13-136-1(86666)
श्राद्धं यः कृत्तिकायोगे कुर्वीत सततं नरः।
अग्नीनाधाय सापत्यो यजेत विगतज्वरः॥ 13-136-2(86667)
अपत्यकामो रोहिण्यां तेजस्कामो मृगोत्तमे।
क्रूरकर्मा ददच्छ्राद्धमार्द्रायां मानवो भवेत्॥ 13-136-3(86668)
कृषिभागी भवेन्मर्त्यः कुर्वञ्श्राद्धं पुनर्वसौ।
पुष्टिकामोऽथ पुष्येण श्राद्धमीहेत मानवः॥ 13-136-4(86669)
आश्लेषायां ददच्छ्राद्धं धीरान्पुत्रान्प्रजायते।
ज्ञातीनां तु भवेच्छ्रेष्ठो मघासु श्राद्धमावपन्॥ 13-136-5(86670)
फल्गुनीषु ददच्छ्राद्धं सुभगः श्राद्धदो भवेत्।
अपत्यभागुत्तरासु हस्तेन फलभाग्भवेत्॥ 13-136-6(86671)
चित्रायां तु ददच्छ्राद्धं लभेद्रूपवतः सुतान्।
स्वातियोगे पितॄनर्च्य वाणिज्यमुपजीवति॥ 13-136-7(86672)
बहुपुत्रो विशाखासु पुत्रमीनहन्भवेन्नरः।
अनुराधासु कुर्वाणो राज्यचक्रं प्रवर्तयेत्॥ 13-136-8(86673)
आधिपत्यं व्रजेन्मर्त्यो ज्येष्ठायामपवर्जयन्।
नरः कुरुकुलश्रेष्ठ ऋद्धो दमपुरःसरः॥ 13-136-9(86674)
मूले त्वारोग्यमृच्छेत यशोऽषाढासु चोत्तमम्।
उत्तरासु त्वषाढासु वीतशोकश्चरेन्महीम्॥ 13-136-10(86675)
श्राद्धं त्वभिजितौ कुर्वन्विद्यां श्रेष्ठामवाप्नुयात्।
श्रवणेषु ददच्छ्राद्धं प्रेत्य गच्छेत्स तद्गतिम्॥ 13-136-11(86676)
राज्यभागी धनिष्ठायां भवेत नियतं नरः।
नक्षत्रे वारुणे कुर्वन्भिषक्सिद्धिमवाप्नुयात्॥ 13-136-12(86677)
पूर्वप्रोष्ठपदाः कुर्वन्बहून्विन्दत्यजाविकान्।
उत्तरासु प्रकुर्वाणो विन्दो गाः सहस्रशः॥ 13-136-13(86678)
बहुकुप्यकृतं वित्तं विन्दते रेवतीं श्रितः।
अश्विनीष्वश्वान्विन्देत भरणीष्वायुरुत्तमम्॥ 13-136-14(86679)
इमं श्राद्धविधिं श्रुत्वा शशबिन्दुस्तथाऽकरोत्।
अक्लेसेनाजयच्चापि महीं सोऽनुशशास ह॥ ॥ 13-136-15(86680)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्त्रिंशदधिकशततमोऽध्यायः॥ 136 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-136-3 आर्द्रायां मानदो भवेदिति थ.पाठः॥ 7-136-6 फलभाक् इष्टार्थभाक्॥ 7-136-12 वारुणे शतभिषजि॥ 7-136-14 अश्वांश्चाश्वयुजेवेत्तीति ध.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|